|
|
 |
 |
|
|
८ कर्णपर्व.jpg)
॥ श्रीः ॥
8.28. अध्यायः 028
Mahabharata - Karna Parva - Chapter Topics
दुर्योधनेन कर्णसारथ्ये शङ्कमानं शल्यम्प्रति परशुरामचरित्रकीर्तनपूर्वकं कर्णस्य तदन्तेवासित्वादिगुणवत्तया तत्सारथ्य करणे दोषाभावप्रतिपादनम्॥ 1 ॥

Mahabharata - Karna Parva - Chapter Text
दुर्योधन उवाच। 8-28-0x(4897)(56257)
इमं चाप्यपरं भूय इति हासं निबोध मे।
पितुर्मम सकाशे वै ब्राह्मणः प्राह धर्मवित्॥ 8-28-1(56258)
श्रुत्वा चैतद्वचश्चित्रं हेतुकार्यार्थतत्त्ववित्।
कुरु शल्य विनिश्चित्य मा भूदत्र विचारणा॥ 8-28-2(56259)
भार्गवाणां कुले जातो जमदग्निर्महातपाः।
तस्य रामेति विख्यातः पुत्रस्तेजोगुणान्वितः॥ 8-28-3(56260)
स तीव्रं तप आस्थाय सम्प्रसादितवान्भवम्।
अस्त्रहेतोः प्रसन्नात्मा नियतः संयतेन्द्रियः॥ 8-28-4(56261)
तस्मै तुष्टो महादेवो भक्त्या च प्रशमेन च।
हृद्गतं चास्य विज्ञाय दर्शयामास शङ्करः।
प्रत्यक्षेण महादेवः स्वां तनुं सर्वशङ्करः॥ 8-28-5(56262)
शङ्कर उवाच। 8-28-6x(4898)
राम तुष्टोऽस्मि भद्रं ते विदितं तव चेप्सितम्।
कुरुष्व पूतमात्मानं सर्वमेतदवाप्स्यसि॥ 8-28-6(56263)
दास्यामि ते तदाऽस्त्राणि यदा पूतो भविष्यसि।
अपात्रमसमर्थं च दहन्त्यस्त्राणि भार्गव॥ 8-28-7(56264)
इत्युक्तो जामदग्न्यस्तु देवदेवेन शूलिना।
प्रत्युवाच महात्मानं शिरसाऽवनतः प्रभुम्॥ 8-28-8(56265)
यदा जानासि देवेश पात्रं मामस्त्रधारणे।
तदा शुश्रूषतेऽस्त्राणि भवान्मे दातुमर्हति॥ 8-28-9(56266)
ततः स तपसा चैव व्रतेन नियमेन च।
पूजोपहारबलिभिर्होममन्त्रपुरस्कृतैः॥ 8-28-10(56267)
समाराधितवाञ्शर्वं बहुवर्षगणांस्तदा।
प्रसन्नश्च महादेवो भार्गवस्य महात्मनः॥ 8-28-11(56268)
असकृच्चाब्रवीत्तस्य गुणान्देव्याः सकाशतः।
भक्तिमानेष सततं मयि रामो दृढव्रतः॥ 8-28-12(56269)
एवमस्य गुणान्प्रीतो बहुशो कथयद्विभुः।
देवतानां पितॄणां च समक्षमरिसूदन॥ 8-28-13(56270)
एतस्मिन्नेव काले तु दैत्या ह्यासन्महाबलाः।
तैस्तदा दर्पमोहाद्वै अबाध्यन्त दिवौकसः॥ 8-28-14(56271)
ततः सम्भूय विबुधास्तान्हन्तुं कृतनिश्चयाः।
चक्रुः शत्रुवधे यत्नं दैत्याञ्चेतुमशक्नुवन्॥ 8-28-15(56272)
अभिगम्य ततो देवा महेश्वरमुमापतिम्।
प्रासादयंस्तदा भक्त्या जहि शत्रुगणानिति॥ 8-28-16(56273)
प्रतिज्ञाय ततो देवो देवतानां रिपुक्षयम्।
रामं भार्गवमाहूय सोऽभ्यभाषत शङ्करः॥ 8-28-17(56274)
रिपून्भार्गव देवानां जहि सर्वान्समागतान्।
लोकानां हितकामार्थं मत्प्रियार्थं तथैव च॥ 8-28-18(56275)
परशुराम उवाच। 8-28-19x(4899)
का शक्तिर्मम देवेश अकृतास्त्रस्य संयुगे।
निहन्तुं दानवान्सर्वान्कृतास्त्रान्युद्धदुर्मदान्॥ 8-28-19(56276)
ईश्वर उवाच। 8-28-20x(4900)
गच्छ त्वं मदनुज्ञानान्निहनिष्यसि शात्रवान्।
विजित्य च रिपून्सर्वान्गुणान्प्राप्स्यसि पुष्कलान्॥ 8-28-20(56277)
दुर्योधन उवाच। 8-28-21x(4901)
एतच्छ्रुत्वा तु वचनं प्रतिगृह्य च सर्वशः।
रामः कृतस्वस्त्ययनः प्रययौ दानवान्प्रति॥ 8-28-21(56278)
ततोऽजयद्देवशत्रून्महादर्पबलान्वितान्।
वज्राशनिसमस्पर्शैः प्रहारैरेव भार्गवः॥ 8-28-22(56279)
स दानवैः क्षततनुर्जामदग्न्यो नृपोत्तम।
संस्पृष्टः स्थाणुना सद्यो निर्व्रणः समपद्यत॥ 8-28-23(56280)
प्रीतश्च भगवान्देवः कर्मणा तेन तस्य वै।
वरान्प्रादाद्बहुविधान्भार्गवाय महात्मने॥ 8-28-24(56281)
उक्तश्च प्रीतियुक्तेन देवदेवेन शूलिना॥ 8-28-25(56282)
निपातात्तव शस्त्राणां शरीरे याऽभवद्रुजा।
तया ते मानुषं कर्म व्यपोहं भृगुनन्दन।
गृहाणास्त्राणि दिव्यानि मत्सकाशाद्यथेप्सितं॥ 8-28-26(56283)
ततोऽस्त्राणि समग्राणि वरांश्च मनसेप्सितान्।
लब्ध्वा बहुविधान्रामः प्रणम्यशिरसा शिवम्।
अनुज्ञां प्राप्य देवेशाज्जगाम स महातपाः॥ 8-28-27(56284)
एवमेतत्पुरावृत्तं तथा कथितवानृषिः॥ 8-28-28(56285)
भार्गवोऽपि ददौ सर्वं धनुर्वेदं महात्मने।
कर्णाय पुरुषव्याघ्रः सुप्रीतेनान्तरात्मना॥ 8-28-29(56286)
वृजिनं न भवेत्किञ्चिदस्य कर्णस्य पार्थिव।
सूतेन वर्धितो नित्यं न सूतो नृप एव सः॥ 8-28-30(56287)
विशुद्धयोनिं विज्ञाय दिव्यान्यस्त्राण्यदाद्भृगुः।
नापि सूतकुले जातं मन्ये कर्णं कथञ्चन।
देवपुत्रमदं मन्ये क्षत्रियाणां कुलोद्भवम्॥ 8-28-31(56288)
विसृष्टमविबोधार्थं कुलस्येंति मतिर्मम।
सर्वथा न ह्यसो शल्य कर्णः सूतकुलोद्भवः॥ 8-28-32(56289)
सकुण्डलं सकवचं दीर्घबाहुमरिन्दमम्।
कथमादित्यसङ्काशं मृगी सिंहं प्रसूयते॥ 8-28-33(56290)
पश्य ह्यस्य भुजौ पीनौ नागराजकरोपमौ।
वक्षः पश्य विशालं च सर्वशस्त्रसहं रणे॥ 8-28-34(56291)
न त्वेव प्राकृतः कश्चित्कर्णो वैकर्तनो वृषा।
महात्माह्येष राजेन्द्र रामशिष्यः प्रतापवान्॥ ॥ 8-28-35(56292)
इति श्रीमन्महाभारते कर्णपर्वणि अष्टविंशोऽध्यायः॥ 28 ॥
Mahabharata - Karna Parva - Chapter Footnotes
8-28-1 नाशक्नुवन्निति नञध्याहारेण योजना॥ 8-28-28 अष्टाविंशोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|